॥ श्री शिव सहस्रनाम स्तोत्रम् पाठ ॥
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥
हरिश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥
श्मशानचारी भगवान् खचरो गोचरोऽर्दनः ॥
उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥
महाऽऽत्मा सर्वभूतश्च विरूपो वामनो मनुः ॥
पवित्रश्च महांश्चैव नियमो नियमाश्रयः ॥
सहस्राक्षो विरूपाक्षः सोमो नक्षत्रसाधकः ॥
अद्रिरद्र्यालयः कर्ता मृगबाणार्पणोऽनघः ॥
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥
सुवर्णरेताः सर्वज्ञः सुबीजो वृषवाहनः ॥
विश्वरूपः स्वयं श्रेष्ठो बलवीरोऽबलोगणः ॥
पवित्रं परमं मन्त्रः सर्वभाव करो हरः ॥
अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् ॥
उष्णिषी च सुवक्त्रश्चोदग्रो विनतस्तथा ॥
सृगाल रूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः ॥
ऊर्ध्वरेतोर्ध्वलिंग ऊर्ध्वशायी नभस्तलः ॥
अहश्चरोऽथ नक्तं च तिग्ममन्युः सुवर्चसः ॥
सिंहशार्दूलरूपश्च आर्द्रचर्मांबरावृतः ॥
निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः ॥
सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः ॥
दक्षयज्ञापहारी च सुसहो मध्यमस्तथा ॥
गंभीरघोषो गंभीरो गंभीर बलवाहनः ॥
सुदीक्ष्णदशनश्चैव महाकायो महाननः ॥
तीक्ष्ण तापश्च हर्यश्वः सहायः कर्मकालवित् ॥
हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥
ज्योतिषामयनं सिद्धिः संधिर्विग्रह एव च ॥
वैणवी पणवी ताली कालः कालकटंकटः ॥
प्रजापतिर्दिशा बाहुर्विभागः सर्वतोमुखः ॥
मेढ्रजो बलचारी च महाचारी स्तुतस्तथा ॥
व्यालरूपो बिलावासी हेममाली तरंगवित् ॥
बन्धनस्त्वासुरेन्द्राणां युधि शत्रुविनाशनः ॥
प्रस्कन्दनो विभागश्चातुल्यो यज्ञभागवित् ॥
हेमो हेमकरो यज्ञः सर्वधारी धरोत्तमः ॥
संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥
सर्वकामप्रसादश्च सुबलो बलरूपधृक् ॥
आकाशनिधिरूपश्च निपाती उरगः खगः ॥
वसुवेगो महावेगो मनोवेगो निशाचरः ॥
मुनिरात्म पतिर्लोके संभोज्यश्च सहस्रदः ॥
उन्मादो मदनाकारो अर्थार्थकर रोमशः ॥
सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः ॥
महासेनो विशाखश्च षष्टिभागो गवांपतिः ॥
ऋतुरृतु करः कालो मधुर्मधुकरोऽचलः ॥
ब्रह्मचारी लोकचारी सर्वचारी सुचारवित् ॥
निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ॥
भगस्याक्षि निहन्ता च कालो ब्रह्मविदांवरः ॥
लिंगाध्यक्षः सुराध्यक्षो लोकाध्यक्षो युगावहः ॥
इतिहास करः कल्पो गौतमोऽथ जलेश्वरः ॥
लोक कर्ता पशु पतिर्महाकर्ता महौषधिः ॥
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः ॥
वेदकारः सूत्रकारो विद्वान् समरमर्दनः ॥
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥
नीलस्तथाऽंगलुब्धश्च शोभनो निरवग्रहः ॥
उत्संगश्च महांगश्च महागर्भः परो युवा ॥
महापादो महाहस्तो महाकायो महायशाः ॥
महादन्तो महाकर्णो महामेढ्रो महाहनुः ॥
महावक्षा महोरस्को अन्तरात्मा मृगालयः ॥
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥
असपत्नः प्रसादश्च प्रत्ययो गिरि साधनः ॥
वृक्षाकारो वृक्ष केतुरनलो वायुवाहनः ॥
अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ॥
अमोघार्थः प्रसादश्चाभिगम्यः सुदर्शनः ॥
नाभिर्नन्दिकरो भाव्यः पुष्करस्थपतिः स्थिरः ॥
नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥
भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥
शंकुस्त्रिशंकुः सम्पन्नः शुचिर्भूतनिषेवितः ॥
शाखो विशाखस्ताम्रोष्ठो ह्यमुजालः सुनिश्चयः ॥
gन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुसारथिः ॥
तुंबवीणी महाकोपोर्ध्वरेता जलेशयः ॥
सर्वांगरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥
सयज्ञारिः सकामारिः महादंष्ट्रो महाऽऽयुधः ॥
अमरेशो महादेवो विश्वदेवः सुरारिहा ॥
अजैकपाच्च कापाली त्रिशंकुरजितः शिवः ॥
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥
उदग्रश्च विधाता च मान्धाता भूत भावनः ॥
पद्मगर्भो महागर्भश्चन्द्रवक्त्रोमनोरमः ॥
कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः ॥
देवदेवः मुखोऽसक्तः सदसत् सर्वरत्नवित् ॥
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥
सारग्रीवो महाजत्रु रलोलश्च महौषधः ॥
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥
सारंगो नवचक्रांगः केतुमाली सभावनः ॥
अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः ॥
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः ॥
प्रतिष्ठायी महाहर्षो जितकामो जितेन्द्रियः ॥
महागीतो महानृत्तोह्यप्सरोगणसेवितः ॥
आवेदनीय आवेशः सर्वगन्धसुखावहः ॥
संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः ॥
युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः ॥
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥
अक्षश्च रथ योगी च सर्वयोगी महाबलः ॥
निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः ॥
मूलो विशालो ह्यमृतो व्यक्ताव्यक्तस्तपो निधिः ॥
सेनाकल्पो महाकल्पो युगायुग करो हरिः ॥
न्याय निर्वापणः पादः पण्डितो ह्यचलोपमः ॥
विस्तारो लवणः कूपः कुसुमः सफलोदयः ॥
इन्दुर्विसर्वः सुमुखः सुरः सर्वायुधः सहः ॥
गन्धमाली च भगवान् उत्थानः सर्वकर्मणाम् ॥
तरस्ताली करस्ताली ऊर्ध्व संहननो वहः ॥
मुण्डो विरूपो विकृतो दण्डि मुण्डो विकुर्वणः ॥
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ॥
पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिंगलः ॥
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥
अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयंभुवः ॥
उमापतिरुमाकान्तो जाह्नवी धृगुमाधवः ॥
महाप्रसादो दमनः शत्रुहा श्वेतपिंगलः ॥
सर्वपार्श्व सुतस्तार्क्ष्यो धर्मसाधारणो वरः ॥
साध्यर्षिर्वसुरादित्यो विवस्वान् सविताऽमृतः ॥
ऋतुः संवत्सरो मासः पक्षः संख्या समापनः ॥
विश्वक्षेत्रं प्रजाबीजं लिंगमाद्यस्त्वनिन्दितः ॥
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥
देवासुरविनिर्माता देवासुरपरायणः ॥
देवासुरमहामात्रो देवासुरगणाश्रयः ॥
देवातिदेवो देवर्षिर्देवासुरवरप्रदः ॥
सर्वदेवमयोऽचिन्त्यो देवताऽऽत्माऽऽत्मसंभवः ॥
ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः ॥
प्रयुक्तः शोभनो वर्जैशानः प्रभुर्व्ययः ॥
शृंगी शृंगप्रियो बभ्रू राजराजो निरामयः ॥
ललाटाक्षो विश्वदेहो हरिणो ब्रह्मवर्चसः ॥
सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ॥
विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् ॥

0 Comments